मीमांसासूत्रे शाब्दबोध: भाषातत्त्वस्य तात्त्विकमन्वेषणम्

Authors

  • K. K. Sundaresan Sree Sankaracharya University of Sanskrit, Kalady, Kerala, India. Author

DOI:

https://doi.org/10.63090/

Keywords:

मीमांसादर्शनम्, शाब्दबोधः, शब्दप्रमाणम्, आकाङ्क्षा-योग्यता-आसत्ति-तात्पर्यम्, अन्विताभिधानवादः, अभिहितान्वयवादः, शब्दनित्यत्वम्, अपौरुषेयत्वम्, वाक्यार्थबोधः, शबरभाष्यम्

Abstract

अयं शोधप्रबन्धः मीमांसादर्शने शाब्दबोधस्य स्वरूपं विमृशति। जैमिनिमुनिप्रणीते मीमांसासूत्रे तदुपरि शबरस्वामिभाष्ये च भाषायाः तात्त्विकं विश्लेषणं प्राप्यते। शब्दस्य, अर्थस्य, तयोः सम्बन्धस्य च स्वरूपं निरूप्यते। अत्र शाब्दबोधोत्पत्तौ आकाङ्क्षा-योग्यता-आसत्ति-तात्पर्याणां भूमिका विवेच्यते। व्याकरणदर्शन-न्यायदर्शनयोः सह तुलनात्मकविश्लेषणेन मीमांसादर्शनस्य वैशिष्ट्यं प्रकाश्यते। शोधस्यायं निष्कर्षः यत् मीमांसादर्शने शाब्दबोधः केवलं भाषावैज्ञानिकं विषयं न भवति, अपितु वैदिकार्थबोधस्य मूलाधारभूतं तात्त्विकं प्रमाणं भवति। अयं प्रबन्धः सैद्धान्तिकविश्लेषणपद्धत्या प्राचीनसूत्रभाष्यटीकानां समीक्षणेन निष्पन्नः।

Author Biography

  • K. K. Sundaresan, Sree Sankaracharya University of Sanskrit, Kalady, Kerala, India.

    Retd. Professor 

Downloads

Published

2026-07-31